पूर्तम्

सुधाव्याख्या

प्विति । खातं पुष्करिणीखननमादिर्यस्य देवालयारामादिनिर्माणस्य । खातादि च तत्कर्म च क्रिया तस्मिन् । पूरणम् । पूर्यन्ते स्म वा । ‘पॄ पालनपूरणयोः (जु० प० से०) । भावे (३.३.११४) कर्मणि (३.२.१०२) वा क्तः । न ध्याख्या-'(८.२.५७) इति निष्ठानत्वं न । ‘पुष्करिण्यः सभावापी देवतायतनानि च । आरामाश्च विशेषेण पूर्तं कर्म विनिर्दिशेत् । इति स्मृतिः । 'पूर्त त्रिषु पूरिते स्यात्क्लीबं खातादिकर्मणि' (इति मेदिनी) ॥