इष्टम्

सुधाव्याख्या

अथेति । क्रतुश्च यज्ञः कर्म च दानादि तदिष्टशब्दवाच्यम् । यजनम् । 'नपुंसके भावे क्तः’ (३.३.११४) । ‘इष्टं यागे च दाने च वाञ्छितेऽपि प्रयुज्यते’ इत्यजयः । ‘एकाग्निकर्म हवनं त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते । इति मनुः । 'इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि’ (इति मेदिनी) ॥