यज्ञियम्

सुधाव्याख्या

तदिति । तस्य यज्ञस्य क्रियामर्हति । अर्हः’ (३.२.१२) इत्यच् । यज्ञमर्हति । 'यज्ञत्विग्भ्याम्-' (५.१.७१) इत्यत्र तत्कर्मार्हति’ इत्युपसंख्यानाद् घः ॥ एकं क्रतु क्रियासम्पादनयोग्यद्विजद्रव्यादेः ‘त्रिषु' इति यज्ञियान्वितम् ॥