अवभृथः

सुधाव्याख्या

दीति । अवभ्रियतेऽनेन । ‘डुभृञ्' (जु० उ० अ०) । भुञ् भरणे’ (भ्वा० उ० अ०) वा । 'अवे भृञः (उ० २.३) इति क्थन् । दीक्षाया अन्तः प्रधानकर्मसमाप्तौ क्रियमाणो यो यज्ञः इष्टिविशेषस्तस्य ॥