चातुर्वर्ण्यम्

सुधाव्याख्या

वीति ॥ विप्रश्च क्षत्त्रियश्च विट् च शूद्रश्च । चत्वार एव वर्णाः । ‘चतुर्वर्णादीनाम्’ (वा० ५.१.१२४) इति स्वार्थे ष्यञ् ।


प्रक्रिया

धातुः -


चतुर्वर्ण + ङस् + ष्यञ् - चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
चतुर्वर्ण + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
चतुर्वर्ण + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
चतुर्वर्ण् + य - यस्येति च 6.4.148
चातुर्वर्ण्य - तद्धितेष्वचामादेः 7.2.117
चातुर्वर्ण्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चातुर्वर्ण्य + अम् - अतोऽम् 7.1.24
चातुर्वर्ण्यम् - अमि पूर्वः 6.1.107