इतिहः

सुधाव्याख्या

इत्येवं ह किल ॥ यत्तु मुकुटेनोक्तम्—पूर्वे च पूर्वतराश्च’ इति द्वन्द्वे ‘परोवरपरम्परपुत्रपौत्रमनुभवति' (५.२.१०) इति निर्देशात् परम्परादेशे टापि परम्परा । तदुक्तम् विनापि प्रत्ययं परम्पराशब्दो दृश्यते तच्चिन्त्यम् । संनियोगशिष्टन्यायेन खप्रत्ययसंनियोग एव परम्परादेशविधानात् । परम्पराशब्दस्य त्वव्युत्पन्नत्वात् । तदुक्तम्-'अस्ति हि परम्पराशब्दोऽव्युत्पन्नं प्रातिपदिकम् इति । यद्वा परं पिपर्ति । पचाद्यच् (३.१.१३४) । श्वपचाजारभरावत् । पृषोदरादिः (६.३.१०९)॥