अलकः

सुधाव्याख्या

अलेति । अलति, अल्यते, वा । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘कृञादिभ्यो वुन्’ (उ० ५.३५) । ‘अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले’ (इति मेदिनी) ॥