अक्षि

सुधाव्याख्या

अश्नुते । अनेन वा । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । ‘अशेर्नित्’ (उ० ३.१५६) इति क्सिः । ‘अशेः षिच्’ इति मुकुटोऽपाणिनीयः । यद्वा अक्षति । ‘अक्षू व्याप्तौ’ (भ्वा० प० से०) । इन् (उ० ४.११८) ॥