जिह्वा

सुधाव्याख्या

लेढि । लिहन्त्यनया वा । ‘लिह आस्वादने’ (आ० उ० अ०) । ‘शेवयह्वजिह्वा-’ (उ० १.१५४) इति साधुः । -लिहेः ‘पूर्वजिह्वग्रीवा’ इति वन्प्रत्ययः इति मुकुटोऽपाणिनीयः ॥