रसना

सुधाव्याख्या

रसयति । ‘रस आस्वादने’ (चु० उ० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । यद्वा रसयन्त्यनया । ‘ण्यासश्रन्थो युच्’ (३.३.१०७) । रसति । ‘रस शब्दे’ (भ्वा० प० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् वा । ‘रसनं स्वजने ध्वनौ । जिह्वयां तु न पुंसि स्यात्’ (इति मेदिनी) । ‘तालव्या अपि दन्त्याश्च’ इत्यादौ ‘जिह्वायां रशना तथा’ इत्युक्तेर्दन्त्यतालव्यमध्योऽयम् । ‘रसनं तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम्’ इति रभसः ।-रसेः सौत्रात् ‘रसिरुचिरुवृञो युच्’ -इति मुकुटोऽपाणिनीयः ॥