काकुदम्

सुधाव्याख्या

काकुर्जिह्वा उद्यतेऽनुद्यतेस्मिन् अनेकार्थत्वाद्वदिरुत्क्षेपणे वर्तते । घञर्थे कः (वा० ३.३.५८) । पृषोदरादिः (६.३.१०९) । ईषत् कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । अब्दादित्वात् (उ० ४.९८) साधुर्वा । यद्वा ‘निश्चेष्टं ककुदं शिरः’ । ककुदे भवम् ‘तत्र भवः’ (४.३.५३) इत्यण् ॥