तालुम्

सुधाव्याख्या

तेति । तरन्त्यनेन । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो रश्च लः’ (उ० १.५) इति ञुण् । तालयति । ‘तल प्रतिष्ठायाम्’ चुरादिः । मृगय्वादिः (उ० १.३७) वा ॥


प्रक्रिया

धातुः -


तॄ प्लवनतरणयोः
तॄ + ञुण् - त्रो रश्च लः (१.५) । उणादिसूत्रम् ।
तॄ + उ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तार् + उ - अचो ञ्णिति 7.2.115
ताल् + उ - त्रो रश्च लः (१.५) । उणादिसूत्रम् ।
तालु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तालु - स्वमोर्नपुंसकात्‌ 7.1.23