दशनः

सुधाव्याख्या

दश्यतेऽनेन । करणे ल्युट् (३.३.११७) । ‘दहदश-’ (३.१.२४) इति निर्देशात्क्वचिदक्वित्यपि लोपः । यद्वा कर्तरि ल्युट् (३ ३.११३) ॥