सृक्कन्म्

सुधाव्याख्या

प्रेति । सृजति लालादि । ‘सृज विसर्गे’ (तु० प० अ०) बाहुलकात्कनिन् । ‘प्रान्तावोष्ठस्य सृक्कणी’ इति क्लीबकाण्डेऽमरदत्तः । ‘कवयुक्तम्’ (सृक्वणी) इत्यन्ये । (सृक्वणी) ङ्यन्ता–इत्येके । अदन्तं सृक्कम्-इत्यपरे । ‘सृक्कि’ शब्द इकारान्तः क्लीबम् । तत्र बाहुलकात्किः ॥