हनुः

सुधाव्याख्या

तदिति । ताभ्यां कपोलाभ्यां परः । हन्ति । ‘शुस्वृस्निहि’ (उ० १.१०) इत्युः । ‘हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे’ (इति मेदिनी) ॥