कपोलः

सुधाव्याख्या

कम्पते । ‘कपि चलने’ (भ्वा० आ० से०) । ‘कपिगडिगण्डि-’ (उ० १.६६) इत्योलच् । ‘कपि’ इति निर्देशान्नलोपः । कं सुखं पोलति । ‘पुल महत्त्वे’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (वा० ३.२.१) ॥