गण्डः

सुधाव्याख्या

गेति । गण्डति । ‘गडि वदनैकदेशे’ (भ्वा० प० से०) अच् (३.१.१३४) । ‘गण्डः स्यात्पुंसि खड्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषणबुद्बुदे’ (इति मेदिनी) ॥