चिबुकम्

सुधाव्याख्या

अधेति । चीवति, चीव्यते, वा । ‘चीवृ आदानसंवरणयोः (भ्वा० उ० से०) । मृगय्वादिः (उ० १.३७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । चिनोति शोभां वा । प्राग्वत् ॥ ‘अधस्तादधरोष्ठस्य चिवुः स्याच्चिबुकं तथा’ इति निगमः ॥