रदनच्छदः

सुधाव्याख्या

‘द्वन्द्वश्च प्राणि-’ इत्येकत्वं तु न भवति । अनित्यत्वात् । ‘ओष्ठाभ्यां युतावधरौ’ इति शाकपार्थिवादिः (वा० २.१.७८) वा । रदनाः छाद्यन्तेऽनेन ‘छद संवरणे’ चुरादिः । ‘पुंसि-’ (३.३.११८) इति घः । ‘छादेर्घे-’ (६.४.९६) इति ह्रस्वः ॥


प्रक्रिया

धातुः -


छदँ अपवारणे
छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छद् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
छद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
छाद् + इ - अत उपधायाः 7.2.116
रदन + जस् + छाद् + इ + घ - पुंसि संज्ञायां घः प्रायेण 3.3.118
रदन + छाद् + इ + घ - सुपो धातुप्रातिपदिकयोः 2.4.71
रदन + छाद् + घ - णेरनिटि 6.4.51
रदन + छाद् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रदनछद - छादेर्घेऽद्व्युपसर्गस्य 6.4.96
रदनच्छद - छे च 6.1.73
रदनच्छद + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रदनच्छद + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रदनच्छद + रु - ससजुषो रुः 8.2.66
रदनच्छद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रदनच्छदः - खरवसानयोर्विसर्जनीयः 8.3.15
रदनच्छदः