व्यामः

सुधाव्याख्या

व्येति । विशेषेण अम्यतेऽनेन । ‘अम गतौ’ (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । मुकुटस्तु व्यामीयतेऽनेन । माङो मूलविभुजादित्वात् (वा० ३.२.५) कः इति व्याख्यत् । तन्न । ‘कृत्कर्तरि’ (३.४.६७) इत्यस्य प्रवृत्त्या करणे कस्यासम्भवात्–व्यामीयते रज्ज्वाद्यनेन इति स्वाम्यप्येवम् ॥ स्वे स्वे पार्श्वे प्रसारितयोर्बाह्वोर्मध्यम् ।