कुलपालिका

सुधाव्याख्या

कुलं पालयति । ‘पाल रक्षणे’ (चु० प० से०) । ‘कर्मण्यण्’ (३.२.१) । स्वार्थे कन् ५.३.७५) ॥


प्रक्रिया

धातुः -


कुल + अम् + पाल् + अण् - कर्मण्यण् 3.2.1 , उपपदमतिङ् 2.2.19
कुल + पाल् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुलपाल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुलपाल + सु + कन् - संज्ञायां कन् 5.3.75
कुलपाल + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुलपाल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुलपालक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कुलपालक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कुलपालका - अकः सवर्णे दीर्घः 6.1.101
कुलपालिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
कुलपालिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुलपालिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुलपालिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68