स्वयंवरा

सुधाव्याख्या

अथेति । स्वयं वृणीते । ‘वृङ् सम्भक्तौ’ (क्र्या० आ० से०) । ‘संज्ञायां भृतॄवृजि-’ (३.२.४६) इति खच् ॥


प्रक्रिया

धातुः -


स्वय + अम् + वृ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46, उपपदमतिङ् 2.2.19
स्वय + वृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्वय + वृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्वय + वर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
स्वय + मुम् + वर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
स्वय + म् + वर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वयंवर - नश्चापदान्तस्य झलि 8.3.24
स्वयंवर + टाप् - अजाद्यतष्टाप्‌ 4.1.4
स्वयंवर + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
स्वयंवरा - अकः सवर्णे दीर्घः 6.1.101
स्वयंवरा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्वयंवरा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्वयंवरा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68