कृतसापत्निकः

सुधाव्याख्या

कृतेति । सपत्न्येव । स्वार्थे कन् (५.३.७५) । कृतासपत्निका यस्याः । ‘कृतसापत्निका’ इति क्वचित् पाठः । सपत्न्या भावः । ष्यञ् (५.१.१२४) । ङीष् (४.१.४१) । यलोपः (६.४.१५०) । स्वार्थे कन् (५.३.७५) । ह्रस्वत्वम् (७.४.१३) च । कृता सापत्निका यस्याः । क्वचित् ‘कृतं- सापत्नका’ इति पाठः । सपत्न्या आगतम् । ‘तत आगतः’ (४.३.७४) इत्यण् । स्वार्थे कन् (५.३.७५) । कृतं सपत्नकमस्याः । ‘-असुपः’ (७.३.४४) इति पर्युदासान्नेत्वम् ॥