पर्शुका

सुधाव्याख्या

पेति । स्पृशति, पृश्यते, वा । ‘स्पृश संस्पर्शने’ (तु० प० अ०) । ‘स्पृशेः श्वण्शुनौ पृ च’ (उ० ५.२७) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा परं शृणाति । ‘आङ्परयोः खनिशॄभ्यां डिच्च’ (उ० १.३३) इति कुः । बाहुलकात्परस्याकारलोपः । पर्शुरिव । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । ‘अप्राणिजातेश्च-’ (वा० ४.१.६६) इत्यूङि ‘पर्शूः’ अपि ॥


प्रक्रिया

धातुः -


स्पृशँ संस्पर्शने
स्पृश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पृ + शुन् - स्पृशेः श्वण्शुनौ पृ च (५.२७) । उणादिसूत्रम् ।
पृ + शु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पर् + शु - सार्वधातुकार्धधातुकयोः 7.3.84
पर्शु + सु + कन् - न सामिवचने 5.4.5
पर्शु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पर्शुक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पर्शुक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पर्शुक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पर्शुका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
पर्शुका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पर्शुका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पर्शुका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68