कशोरूका

सुधाव्याख्या

पृष्ठेति । कं वायुं शृणाति । केन शीर्यते वा । ‘केश्र एरङ् चास्य’ (उ० १.८८) इत्यूः । ‘संज्ञायां कन्’ (५.३.७५) । ‘केऽणः’ (७.४.१३) इति ह्रस्वः । यद्वा कशति । कश्यते वा । ‘कश शब्दे’ । बाहलकादेरुः । स्वार्थे कन् (ज्ञापि० ५. ४.५) ॥