कङ्कालः

सुधाव्याख्या

स्यादिति । ‘कम्’ इत्यव्ययं सुखे शिरसि च । कं कालयति । ‘कल क्षेपे’ चुरादिः । अच् (३.१.१३४) । यद्वा कङ्कते । ‘ककि गतौ’ (भ्वा० आ० से०) । बाहुलकात्कालन् ॥


प्रक्रिया

धातुः -


कलँ क्षेपे
कल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
कल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काल् + इ - अत उपधायाः 7.2.116
कम् + काल् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
कम् + काल् + अच् - णेरनिटि 6.4.51
कम् + काल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कंकाल - नश्चापदान्तस्य झलि 8.3.24
कङ्काल - अनुस्वारस्य ययि परसवर्णः 8.4.58
कङ्काल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कङ्काल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कङ्काल + रु - ससजुषो रुः 8.2.66
कङ्काल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कङ्कालः - खरवसानयोर्विसर्जनीयः 8.3.15