उन्मादवत्

सुधाव्याख्या

उन्मदनम् । घञ् (३.३.१८) । उन्मादोऽस्यास्ति । मतुप् (५.२.९४) ॥


प्रक्रिया

धातुः -


मदीँ हर्षे ग्लेपने च
मद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् + मद् + घञ् - भावे 3.3.18
उत् + मद् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उत् + माद - अत उपधायाः 7.2.116
उन्माद - यरोऽनुनासिकेऽनुनासिको वा 8.4.45
उन्माद + सु + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
उन्माद + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
उन्माद + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उन्माद + वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
उन्मादवत् + ङीप् - उगितश्च 4.1.6
उन्मादवत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उन्मादवती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उन्मादवती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उन्मादवती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68