उन्मत्तः

सुधाव्याख्या

उन्मेति । उन्माद्यति स्म । ‘मदी हर्षे’ (दि० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘न ध्याख्या-’ (८.२.५७) इति नत्वं न । ‘उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः’ इति हैमः ॥