अभ्यमितः

सुधाव्याख्या

अभ्यम्यते स्म । ‘अम रोगे' (चु० उ० से०) । क्तः (३.२.१०२) । चुरादीनां णिचो वैकल्पिकत्वाण्णिजभाव इदम् । अभ्यमतिस्म वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘रुष्यमत्वर-’ (७.२.२८) इति वेट् ॥