आतुरः

सुधाव्याख्या

आतोतोर्ति । ‘तुर त्वरणे’ हृदिः । 'छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते’ । ‘इगुपध-’ (३.१.१३४) इति कः । मुकुटस्तु-आतुरयति = असुस्थत्वादतित्वरते । ‘तुण त्वरणे’ (जु० प० से०) । अत इगुपधकः—इति व्याचख्यौ । तत्र ण्यन्त उपधागुणाभावश्चिन्त्यः । ण्यन्तस्येगुपधत्वाभावात्कप्रत्ययोऽपि ।– आतोरति । आतुरः । आतरति रोगं वा इति स्वाम्यपि चिन्त्यः । तुरेरुक्तरूपाभावात् । तरतेरिष्टरूपासम्भवाच्च ॥