प्रच्छर्दिका

सुधाव्याख्या

प्रेति । प्रच्छर्दनम् । ‘छर्द वमने’ (चु० प० से०) । ‘शेगाख्या-’ (३.३.१०८) इति ण्वुल् ॥


प्रक्रिया

धातुः -


छर्दँ वमने
प्र + छर्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + छर्द् + ण्वुल् - रोगाख्यायां ण्वुल् बहुलम् 3.3.108
प्र + छर्द् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्र + छर्द् + अक - युवोरनाकौ 7.1.1
प्रछर्दक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
प्रछर्दक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रछर्दका - अकः सवर्णे दीर्घः 6.1.101
प्रछर्दका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रछर्दका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रछर्दिका + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
प्रछर्दिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68