विग्रः

सुधाव्याख्या

विग्रेति । विगता नासिका यस्य । ‘प्रादिभ्यो धातुजस्य’ (२.२.२४) इति समासः । ‘वेर्ग्रो वक्तव्यः’ (वा० ५.१.११९) । ‘खुख्रौ च’ इति शाकटायनः । ‘ख्यश्च’ (वा० ५.४.११८) । ‘विखुः’ ‘विखः’ ‘विख्यः’ । ‘विग्रो विखुर्विनासिकः’ इति रभसः । विनसा हतबान्धवा इति तु टे ‘पद्दन्नस्–’ (६.१.६३) इति नस् । ‘विगतया नासिकयोपलक्षिता’ इत्यर्थः ॥


प्रक्रिया

धातुः -


वि + नासिका + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
वि + नासिका - सुपो धातुप्रातिपदिकयोः 2.4.71
विग्र - वेर्ग्रो वक्तव्यः (5.4.119) । वार्तिकम् ।
विग्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विग्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विग्र + रु - ससजुषो रुः 8.2.66
विग्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विग्रः - खरवसानयोर्विसर्जनीयः 8.3.15