वामनः

सुधाव्याख्या

वामयति । ‘टुवम उद्गिरणे’ (भ्वा० प० से०) । नन्द्यादिल्युः (३.१.१३४) । ल्युट् (३.३.११४) वा । ‘मितां ह्रस्वः’ (६.४.९२) इत्यत्र ‘वा चित्तविरागे’ (६.४.९१) इत्यतो ‘वा’ इत्यनुवर्तते इति वृत्तिकृत् । ‘वामनो नीचि खर्बे च त्रिषु पुंसि तु दिग्गजे । हरावङ्कोटवृक्षे’ (इति मेदिनी) । –वामोऽस्यास्ति । पामादित्वात् (५.२.१००) नः - इति स्वामी । -स्त्रियां वामनी-इति मुकुटः ॥