पोगण्डः

सुधाव्याख्या

पवते, पुनाति, वा । विच् (३.२.७५) । पौर्गण्ड एकदेशोऽस्य । अपकृष्टं गच्छति वा । ‘ञमन्ताड्डः’ (उ० १.११४) इति गमेर्डः । पृषोदरादिः (६.३.१०९) । ‘पोगण्डो विकलाङ्गकः’ इति रत्नकोषः । ‘पोगण्डो विकलाङ्गः स्यात्’ (इति हलायुधः) । ‘अपोगण्डः’ इति नञ्समासः । ‘अपोगण्डस्तु शिशुके पाठे विकलाङ्गे च भीरुके’ इति विश्वः ॥