सुन्दरी

सुधाव्याख्या

अतीवोनत्ति । ‘उन्दी क्लेदने’ (रु० प० से०) । सुपूर्वः । बाहुलकादरः । शकन्ध्वादिः (वा० ६.१.९४) । गौरादिः (४.१.४१) ‘सुन्दरी तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत्’ (इति मेदिनी) ॥