उल्वः

सुधाव्याख्या

उल्वमिति । उल्लीयते । ‘लीङ् श्लेषणे’ (दि० आ० अ०) । ‘उल्वादयश्च’ (उ० ४.९५) इति साधुः । यद्वा ओलति, उल्यते, वा । ‘उल’ सौत्रो दाहे । वल्यते वा । ‘वल प्राणने’ (भ्वा० प० से०) । प्राग्वत् ॥