दम्पती

सुधाव्याख्या

दम्पेति । जाया च पतिश्च । राजदन्तादि (२.२.३१) गणे पाठाज्जायाशब्दस्य ‘दम्’ ‘जम्’ भावो वा निपात्यते । ‘दाराः पुसि बहुत्वे च दं कलत्रे नपुंसकम्’ इत्यमरमाला । ‘पत्न्यां जं दमलिङ्गत्वे’ इति नामप्रपञ्चः ॥