भ्रातरौ

सुधाव्याख्या

भ्राजते । ‘भ्राजृ दीप्तौ’ (भ्वा० आ० से०) । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । यत्तु-बिभर्ति । ‘पित्रादयः’ इति तृच् । भ्रादेशश्च-इति—भ्राजते । ‘स्वस्रादयः’ इति ऋन् । जस्य तत्वे–इति च मुकुटेनोक्तम् । तदुपेक्ष्यम् । अपाणिनीयत्वात् । स्वसा च भ्राता च ‘भ्रातृपुत्रौ स्वसृदुहितृभ्याम्’ (१.२.६८) इत्येकशेषः ॥


प्रक्रिया

धातुः -


भ्राजृँ दीप्तौ
भ्राज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भ्रा + तृच् - नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ (२.९५) । उणादिसूत्रम् ।
भ्रातृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भ्रातृ + औ - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भ्रातर् + औ - ऋतो ङिसर्वनामस्थानयोः 7.3.110
भ्रातरौ