प्रजावती

सुधाव्याख्या

प्रेति । प्रजास्त्यस्याः । मतुप् (५.२.९४) । यत्तु-जायायां प्रविश्य पुनः पुनर्जायते । ‘उपसर्गे च संज्ञायाम्’ (३.२.९९) इति डः । प्रजः पतिस्तद्योगात् मतुप् (५.२.९४) । ‘शरादीनां च’ (६.३.१२०) इति दीर्घः — इति मुकुटः । तन्न । '‘प्रजः’ इत्यस्य संज्ञात्वेनाप्रसिद्धत्वात् अस्मदुक्तरीत्या निर्वाहेनोक्तकल्पनाया व्यर्थत्वाच्च ॥