कान्ता

सुधाव्याख्या

कम्यते स्म । ‘कमु कान्तौ’ (भ्वा० आ० से०) । णिङभावे क्तः (३.२.१०२) । ‘कान्ता नार्यां प्रियंगौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्यायः पर्यायान्तः शिलासु च’ (इति मेदिनी) ॥