अपत्यम्

सुधाव्याख्या

स्त्रियामिति । अमी आत्मजाद्याः स्त्रियां वर्तमानाः सन्तो दुहितरं वदन्ति । शार्ङ्गरवादित्वात् (४.१.७३) ङीनि ‘पुत्री’ ।– गौरादौ (४.१.४१) । ‘पुत्री’-इति स्वामिनः प्रमादः । ‘सुता तु दुहिता पुत्री’ इति त्रिकाण्डशेषः ॥