अविः

सुधाव्याख्या

अवति लज्जया । ‘अव रक्षणादौ (भ्वा० प० से०) । ‘अवितॄस्तॄतन्त्रिभ्य ईः’ (उ० ३.१५८) ॥ ‘अविं स्त्रीधर्मिणीं विद्यात्’ इति कात्यात् (अविः) ह्रस्वान्तापि । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) ॥