वहति, उह्यते वा । ‘वहो धश्च’ (उ० १.८३) इत्यू: । मुकुटस्तु बध्नात्यविद्यया । ‘चमितनिबन्धिभ्यः’ इत्यूः इत्याह । तन्न । ‘कृपिचमितमिधनिसर्जिखर्जिभ्य ऊः’ (उ० १.८०) इति सूत्रे बन्धेरग्रहणात् नलोपविधेरदर्शनाच्च ॥
धातुः -