योषा

सुधाव्याख्या

योषति, योषयति वा । अच् (३.१.१३४) । युष्यते । योष्यते वा । घञ् (३.३.१९) । ('जोषा' इति) चवर्गादिपाठे जुषते, जुष्यते वा । ‘जुषी प्रतिसेवनयोः’ (तु० अ० से०) । अच् (३.१.१३४) । घञ् (३.३.१९) वा । –जुषति— इति मुकुटस्य प्रमादः ॥