योषितः

सुधाव्याख्या

योषति । युष्यते वा । ‘युष’ सौत्रः सेवायाम् । ‘हृसृरुहियुषिभ्य इतिः’ (उ० १.९७) । योष्यते स्म । णिजन्तात्कर्मणि क्तः (३.२.१०२) । ‘स्त्री वधूयोंषिता रामा’ इति त्रिकाण्डशेषः ॥