असिक्नी

सुधाव्याख्या

असीति । सिनोति ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘अञ्जिघृसिभ्यः क्तः’ (उ० ३.८९) । यद्वा सीयते स्म । क्तः (३.२.१०२) । ‘द्यतिस्यतिमास्थामित्ति किति’ (७.४.४०) इतीत्वम् । सिता शुक्लकेशा । तद्भिन्ना । ‘छन्दसि क्नमेके (वा० ४.१.३९) इति तस्य क्नः । नान्तत्वान्ङीप् (४.१.५) – द्वे वाक्ये (‘असिक्न्यन्तःपुरप्रेष्या’ इति हैमात्) इत्येके ॥ ‘असिक्निका स्यादवृद्धा या प्रेष्यान्तः पुरोषिता’ इति कात्यः ॥


प्रक्रिया

धातुः -


षिञ् बन्धने
सि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सि + क्त - अञ्जिघृसिभ्यः क्तः (३.८९) । उणादिसूत्रम् ।
सि + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नञ् + सित + सु -नञ्‌ 2.2.6
नञ् + सित - सुपो धातुप्रातिपदिकयोः 2.4.71
न + सित - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + सित - नलोपो नञः 6.3.73
अ + सि + क्न् - छन्दसि क्नमेके (4.1.39) । वार्तिकम् ।
असिक्न् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
असिक्न् + ई - हलन्त्यम् 1.3.3 ,लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
असिक्नी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
असिक्नी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
असिक्नी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68