सैरन्ध्री

सुधाव्याख्या

सायिति । सीरं धरति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । मूलविभुजादिकः (वा० ३.२.५) । बाहुलकान्मुक् । सीरंन्ध्रस्येयम् । ‘तस्येदम्’ (४.३.१२१) इत्यण् । शिल्पकरणात् कर्षकस्त्रीव यद्वा स्वैरं स्वाच्छन्द्यं धरति । प्राग्वत् कः । पृषोदरादिः । (६.३.१०९) । गौरादिः (४.१.४१) । ‘सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम्’ इति दन्त्यादौ रभसः । ‘चतुःषष्टिकलाभिज्ञा । शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरन्ध्री परिकीर्तिता’ । इति कात्यः । (‘सैरिन्ध्री’ इति) इकारमध्यपाठे पृषोदरादित्वं (६.३.१०९) बोध्यम् ॥


प्रक्रिया

धातुः -


धृञ् धारणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सीर + अम् + धृ + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
सीर + धृ + क - सुपो धातुप्रातिपदिकयोः 2.4.71
सीर + धृ + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सीर + ध्र् + अ - इको यणचि 6.1.77
सीर + मुक् + ध्र - बाहुलकात् ।
सीर + म् + ध्र - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सीरंध्र - नश्चापदान्तस्य झलि 8.3.24
सीरन्ध्र - अनुस्वारस्य ययि परसवर्णः 8.4.58
सीरन्ध्र + ङस् + अण् - तस्येदम् 4.3.120
सीरन्ध्र + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सीरन्ध्र + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सीरन्ध् + अ - यस्येति च 6.4.148
सैरन्ध्र - तद्धितेष्वचामादेः 7.2.117
सैरन्ध्र + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
सैरन्ध्र + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सैरन्ध्र् + ई - यस्येति च 6.4.148
सैरन्ध्री + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सैरन्ध्री + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सैरन्ध्री - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68