पोटा

सुधाव्याख्या

पोटेति । पोटयति । ‘पुट भासने’ चुरादिः । अच् (३.१.१३४) -पुटति । ‘पुट संश्लेषणे’ (तु० प० से०) । अच् (३.१.३२४) इति स्वामिमुकुटौ । तन्न । पुटेः कुटादित्वाद्गुणाभावप्रसङ्गात् ॥