जोङ्गकम्

सुधाव्याख्या

जुङ्गति । जुङ्ग्यते, वा । ‘जुगि वर्जने’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । पृषोदरादिः (६.३.१०९) । बाहुलकाद्गुणो वा ॥ ‘अगुरु प्रवरं लोहं क्रिमिजग्धमनार्यजम्’ इति शाश्वतः ।