वंशकम्

सुधाव्याख्या

अथेति । वंश इव । ‘इवे प्रति-’ (५.३.९६) इति कन् । क्वचित् ‘वंशिक’ इति पाठः । वंशोऽस्त्यत्र । ठन् (५.२.११५) । ‘राजार्हं वंशिकं नतम् । वनद्रुमः परमदो वंशकं लोहनामकम्’ इति वाचस्पतिः ॥